Select Your Language

Notifications

webdunia
webdunia
webdunia
webdunia

श्रीहनुमन्नमस्कारः

hanuman bahuk path
, शनिवार, 20 एप्रिल 2024 (04:01 IST)
गोष्पदी- कृत- वारीशं मशकी- कृत- राक्षसम् । रामायण- महामाला- रत्नं वन्देऽनिलात्मजम् ॥ १॥
अञ्जना- नन्दनं- वीरं जानकी- शोक- नाशनम् । कपीशमक्ष- हन्तारं वन्दे लङ्का- भयङ्करम् ॥ २॥
महा- व्याकरणाम्भोधि- मन्थ- मानस- मन्दरम् । कवयन्तं राम- कीर्त्या हनुमन्तमुपास्महे ॥ ३॥
उल्लङ्घ्य सिन्धोः सलिलं सलीलं यः शोक- वह्निं जनकात्मजायाः । आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥ ४॥
मनोजवं मारुत- तुल्य- वेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानर- यूथ- मुख्यं श्रीराम- दूतं शिरसा नमामि ॥ ५॥
आञ्जनेयमतिपाटलाननं काञ्चनाद्रि- कमनीय- विग्रहम् । पारिजात- तरु- मृल- वासिनं भावयामि पवमान- नन्दनम् ॥ ६॥
यत्र यत्र रघुनाथ- कीर्तनं तत्र तत्र कृत- मस्तकाञ्जलिम् । बाष्प- वारि- परिपूर्ण- लोचनं मारुतिर्नमत राक्षसान्तकम् ॥ ७॥

Share this Story:

Follow Webdunia marathi

पुढील लेख

आञ्जनेय गायत्रि